निज-मनो-मणि-भाजनभारया शम-रसैक-सुधारसधारया ।
सकल-बोध-कला-रमणीयकं सहज – सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं निर्व०
सहज-कर्म-कलङ्क-विनाशनै-रमल भाव- सुवासित-चन्दनैः ।
अनुपमान-गुणावलि-नायकं सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने भवातापविनाशनाय चन्दनं निर्व०
सहज-भाव- सुनिर्मलतण्डुलैः सकलदोष- ‘विलास – विशोधनैः ।
अनुपरोध-सुबोध-निधानकं सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्व. स्वाहा
समयसार – सुपुष्प – सुमालया सहज- ‘कर्मक-रेणु-विशोधया ।
परम-योग- बलेन वशीकृतं सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाणविध्वंसनाय पुष्पं निर्व. स्वाहा
अकृतबोध – सुदिव्य-निवेद्यकैर्विहित-जातिजरामरणान्तकैः ।
निरवधि- प्रचुरात्म- गुणालयं सहज – सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति
सहज-रत्नरुचि-प्रतिदीपकैः रुचि – विभूति-तमः प्रविनाशनैः ।
निरवधि-स्वविकास-विकाशनं सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशनाय दीपं निर्व०
निज- गुणाक्षय-रूप- सुधूपनैः स्वगुणघातिमलप्रविनाशनैः ।
विशद-बोध- सुदीर्घ- सुखात्मकं, सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा
परम-भावफलावलि -सम्पदा सहजभाव-‘कुभावविशोधया ।
निज-गुणस्फुरणात्म-निरञ्जनं सहज-सिद्धमहं परिपूजये ॥
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ।
शार्दूलविक्रीडितम्
नेत्रोन्मीलि-विकास-भाव- निवहैरत्यन्त- बोधाय वै,
वार्गन्धाक्षत-पुष्प-दाम-चरुकैः सद्दीप-धूपैः फलैः ।
यश्चिन्तामणि- शुद्ध-भाव- परम- ज्ञानात्मकैरर्चयेत्,
“सिद्धं स्वादु – मगाध-बोधमचलं संचर्चयामो वयम् ॥।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घपदप्राप्तयेऽर्घं निर्वपामीति स्वाहा।
- ये भी पढे: सिद्धपूजा (भावाष्टक) हीराचंद जी, सिद्धपूजा (द्रव्याष्टकम्)
- ये भी पढे: जैन सप्तर्षि पूजा Saptarishi Pooja
- ये भी पढे: Shree Mahaveer Swami Jin Pooja
- ये भी पढे: जैन सुगन्ध दशमी | Sugandha Dashami Vrat Pooja
Note